Mar 20 2025 4 mins
कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः न्यायाधीशः शिन्देवर्यः नीतः । राजा पेरिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्देवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्देवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शिन्देवर्यः । तदा साश्चर्येण 'महता धनस्य स्वीकारे अनिच्छा, तस्य प्रकाशने अनास्था च प्रायः भारते एव द्रष्टुं शक्या' इति स्वगतं वदन् ततः निर्गतवान् सः आपणप्रतिनिधिः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, during a foreign trip, King Sayajirav brought along his trusted assistant, the highly respected judge, Shinde. The king bought many ornaments from a gold shop in Paris. Because of this, the shop representative came to offer a gift to Shinde. However, Shinde rejected it. When the representative said, 'I will inform the king about your honest conduct,' Shinde again rejected it. Surprised, the representative thought to himself, 'Reluctance to accept great wealth and indifference to displaying it is something one can often witness only in India’.